सामग्री पर जाएँ

कष्टम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कष्टम्, क्ली, (कष्यते इति । कष् + भावे क्तः । “कृच्छ्रगहनयोः कषः” । ७ । २ । २२ । इति नेट् ।) पीडामात्रम् । तत्पर्य्यायः । पीडा २ बाधा ३ व्यथा ४ दुःखम् ५ अमानस्यम् ६ प्रसूतिजम् ७ कृच्छ्रम् ८ आभीलम् ९ । इत्यमरः । १ । ९ । ३ ॥ आबाधा १० वेदना ११ दुखम् १२ आमा- नस्यम् १३ । इति तट्टीकायां भरतः ॥ कला- कलम् १४ । इति वाचस्पतिः ॥ अर्त्तिः १५ आर्त्तिः १६ पीडनम् १७ बाधनम् १८ आम- नस्यम् १९ विबाधनम् २० विहेठनम् २१ विधा- नकम् २२ पीडितम् २३ । इति शब्दरत्नावली ॥ क्वाथः २४ अशर्म्म २५ । इति जटाधरः ॥ (यथा महानिर्व्वाणोक्तात्मज्ञाननिर्णये । “कुर्व्वाणः सततं कर्म्म कृत्वा कष्टशतान्यपि । तावन्न लभते मोक्षं यावज्ज्ञानं न जायते” ॥)

"https://sa.wiktionary.org/w/index.php?title=कष्टम्&oldid=125688" इत्यस्माद् प्रतिप्राप्तम्