कह्लारम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कह्लारम्, क्ली, (कस्य जलस्य हार इव के जले ह्लादते वा इति । क + ह्लाद + पचाद्यच् पृषोदरादि- त्वात् साधुः ।) श्वेतोत्पलम् । सु~दि इति भाषा । तत्पर्य्यायः । सौगन्धिकम् २ । इत्यमरः १ । १० । ३६ ॥ (कत्तृणम् ३ । गन्धकञ्च ४ । इति भाव- प्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ यथा, भागवते ४ । ६ । १८ । “कुमुदोत्पलकह्लारशतपत्रवनर्द्धिभिः” ॥) तत्पुष्पगुणाः । कषायत्वम् । मधुरत्वम् । शीतत्वम् । पित्तकफरक्तनाशित्वञ्च । इति राजवल्लभः ॥
