सामग्री पर जाएँ

काकजङ्घा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काकजङ्घा, स्त्री, (काकस्य जङ्घेवाकृतिर्यस्याः ।) स्वनामख्यातवृक्षविशेषः । केउया ठेङ्गा इति भाषा । तत्पर्य्यायः । काकाङ्गी २ काकाञ्ची ३ काक- नासिका ४ । इति शब्दरत्नावली ॥ कृषीवलः । इति रत्नमाला ॥ ध्माङ्क्षजङ्घा ६ काकाह्वा ७ सुलोमशा ८ पारावतपदी ९ दासी १० नदीकान्ता ११ । अस्या गुणाः । तिक्तत्वम् । उष्णत्वम् । कृमिव्रण- कफबाधिर्य्याजीर्णजीर्णविषमज्वरनाशित्वञ्च । इति राजनिर्घण्टः ॥ (“काकजङ्घा बला श्यामा ब्रह्मदण्डी कृताञ्जलिः । पश्निपर्णी त्वपामार्गस्तथा भृड्गरजोऽष्टमः ॥ एषामन्यतमं मूलं पुष्येणोद्धृत्य यत्नतः । रक्तसूत्रेण संवेष्ट्य बद्धमैकाहिकं जयेत्” ॥ इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥ मसीति लोके । अस्याः पर्य्याया गुणाश्च यथा, -- “काकजङ्घा नदीकान्ता काकतिक्ता सुलोमशा । पारावतपदी दासी काका चापि प्रकीर्त्तिता ॥ काकजङ्घा हिमा तिक्ता कषाया कफपित्तजित् । निहन्ति ज्वरपित्तास्रज्वरकण्डूविषक्रिमीन्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) गुञ्जा । इति रत्नमाला ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काकजङ्घा¦ स्त्री काकस्य जङ्घेवावयवो यस्याः। (केओयाटेङ्गा)ख्याते वृक्षभेदे।
“काकजङ्घा नदीकान्ता काकतिक्तासुलोमशा। पारावतपदी दासी काकाह्वापि प्रकीर्त्तिता। काकजङ्घा हिमा तिक्ता कषाया कफपित्तजित्। निहन्तिज्वरपित्तास्रज्वरकण्डूविषक्रमीन्” भावप्र॰ तत्पर्यायगुणा-द्युक्तम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काकजङ्घा¦ f. (-ङ्घा) A plant, (Leea hirta, Rox. Catalogue; elsewhere de- scribed as Leea æquata.) E. काक, and जङ्घा a thigh; compared to a crow's leg.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काकजङ्घा/ काक--जङ्घा f. the plant Leea Hirta Sus3r.

काकजङ्घा/ काक--जङ्घा f. Abrus precatorius L.

"https://sa.wiktionary.org/w/index.php?title=काकजङ्घा&oldid=495559" इत्यस्माद् प्रतिप्राप्तम्