काकजम्बूः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकजम्बूः, स्त्री, (कं जलं अकति आश्रयत्वेन गृह्णा- तीति । क + अक् + अण् + टाप् च । काका जम्बूः । यद्वा काकवर्णा जम्बूः ।) जम्बूप्रभेदः । तत्पर्य्यायः । काकफला २ नादेयी ३ काकवल्लभा ४ भृङ्गेष्टा ५ काकनीला ६ ध्माङ्क्षजम्बूः ७ धन- प्रिया ८ । अस्या गुणाः । कषायत्वम् । अम्लत्वम् । पाके मधुरत्वम् । गुरुत्वम् । दाहश्रमातिसार- नाशित्वम् । वीर्य्यवृद्धिबलप्रदत्वञ्च । इति राज निर्घण्टः ॥
