काकतिन्दुकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकतिन्दुकः, पु, (कं जलं अकति इत्यण् । काकः तिन्दुकः काकवर्णो वा तिन्दुकः काकप्रियस्तिन्दुका वा ।) वृक्षविशेषः । माकडा केन्दु । माकडो गाव् । काकते~दु इति च भाषा । तत्पर्य्यायः । का- केन्दुः २ कुलकः ३ काकपीलुकः ४ । इत्यमरः । २ । ४ । ३९ ॥ काकपीलुः ५ काकाण्डः ६ काक स्फूर्ज्जः ७ काकाह्वः ८ काकवीजकः ९ । अस्य गुणाः । कषायत्वम् । अम्लत्वम् । गुरुत्वम् । वातविकारनाशित्वञ्च । पक्वस्य तस्य गुणाः । मधुरत्वम् । किञ्चित्कफकारित्वम् । वान्तिपित्त- नाशित्वञ्च । इति राजनिर्घण्टः ॥ (काकाण्डशब्दे- ऽस्य विवरणं ज्ञेयम् ॥)
