काकपक्ष
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकपक्षः, पुं, (काकस्य पक्ष इव आकारोऽस्त्यस्य । काकपक्ष + अच् ।) मस्तकपाश्वद्वये कशरचना- विशेषः । काण्पाटा जुल्पी इति च भाषा । तत्पर्य्यायः । शिखण्डकः २ । इत्यमरः । २ । ६ । ९६ ॥ शिखाण्डकः ३ शिखण्डः ४ । इति तट्टीका ॥ (यथा, रघुः । ११ । १ । “कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये । काकपक्षधरमेत्य याचित- स्तेजसां हि न वयः समीक्ष्यते” ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकपक्ष पुं।
शिखा
समानार्थक:काकपक्ष,शिखण्डक
2।6।96।2।2
तद्वृन्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तलाः। ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः॥
पदार्थ-विभागः : अवयवः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकपक्ष¦ पु॰ काकस्य पक्षः तदाकारोऽस्त्यस्य अच्। (काणपाटा)काणजुलपी) प्रसिद्धे शिरोऽधःकर्ण्णपार्श्वस्थे केशभेदे।
“सवृत्तचूलश्चलकाकपक्षकैः”
“काकपक्षधरमेत्य याचितः”
“तौप्रणामचलकाकपक्षकौ”
“काकपक्षधरेऽपि राघवे” इतिच रघुः
“काकपक्षधरो युवा” पद्मपु॰ रामकवचम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकपक्ष¦ m. (-क्षः) The side locks of the head of hair; three or five on each side left when the head is first shaved, and which may be al- lowed to remain, especially in persons of the military caste. E. काक, and पक्ष a feather, a wing, a crow's wing; the word is also used as an epithet of a warrior, a name of RAMA, &c.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकपक्ष/ काक--पक्ष m. " crow's wing " , side-locks of hair on the temples of young men (three or five locks on each side left when the head is first shaved and allowed to remain there , especially in persons of the military caste)