सामग्री पर जाएँ

काकपक्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काकपक्षः, पुं, (काकस्य पक्ष इव आकारोऽस्त्यस्य । काकपक्ष + अच् ।) मस्तकपाश्वद्वये कशरचना- विशेषः । काण्पाटा जुल्पी इति च भाषा । तत्पर्य्यायः । शिखण्डकः २ । इत्यमरः । २ । ६ । ९६ ॥ शिखाण्डकः ३ शिखण्डः ४ । इति तट्टीका ॥ (यथा, रघुः । ११ । १ । “कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये । काकपक्षधरमेत्य याचित- स्तेजसां हि न वयः समीक्ष्यते” ॥)

"https://sa.wiktionary.org/w/index.php?title=काकपक्षः&oldid=125809" इत्यस्माद् प्रतिप्राप्तम्