काकबलिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकबलिः, पुं, (काकेभ्यो देयो बलिरन्नादिकम् ।) काकसम्पदानकान्नादि । तद्दानविधिर्यथा । ओ~ यमद्वारावस्थितनानादिग्देशीयवायसेभ्यो नमः । इति पाद्यादिभिरभ्यर्च्च्य प्रार्थयेत् । “ओ~ काकत्वं यमदूतोऽसि गृहाण बलिमुत्तमम् । यमलोकगतं प्रेतं त्वमाप्यायितुमर्हसि ॥ ओ~ काकाय काकपुरुषाय वायसाय महात्मने । अत्र पिण्डं प्रयच्छामि कथ्यतां धर्म्मराजनि” ॥ इति पूरकपिण्डदानान्त हलायुधः ॥ * ॥ बलिवैश्वदेवान्तर्गततद्विधिर्यथा, -- “ऐन्द्रवारुणवायष्याः सौम्या वै नैरृतास्तथा । वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम्” ॥ ओ~ काक्येभ्यो नमः । इति दद्यात् तदुपरि अद्भिः सिञ्चेत् । इत्याह्निकाचारतत्त्वम् ॥ * ॥ गयायां तद्विधिर्यथा, -- “बलिः काकशिलायाञ्च काकमोक्षणमोक्षदः” । इति श्रीवायुपुराणे श्वेतवाराहकल्पे गयामा- हात्म्ये ४ अध्यायः ॥ तत्र तृतीयदिनकृत्ये काक- बलिदानं यथा, -- “ततः काकबलिं क्षिप्त्वा पुनः स्नानं समाचरेत् । ऐन्द्रवारुणवायव्या याम्या वै नैरृतास्तथा ॥ वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम्” ॥ इति श्रीवायुपुराणे ७ अध्यायः ॥
