सामग्री पर जाएँ

काकमाची

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काकमाची, स्त्री, (काकान् मञ्चते अर्च्चयति फल- दानेनेति । मचि + अण् + गौरादित्वात् ङीष् पृषोदरादित्वात् म लोपः ।) क्षुद्रवृक्षविशेषः । गुडकामाइ इति भाषा । तत्पर्य्यायः । वायसी २ । इत्यमरः । २ । ४ । १५१ ॥ ध्माङ्क्षमाची ३ वाय- साह्वा ४ सर्व्वतिक्ता ५ बहुफला ६ कट्फला ७ रसायनी ८ गुच्छफला ९ काकमाता १० स्वादु- पाका ११ सुन्दरी १२ तिक्तिका १३ बहुतिक्ता १४ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । उष्ण- त्वम् । कफशूलार्शःशोथदोषकुष्ठकण्डूनाशित्वञ्च । इति राजनिर्घण्टः ॥ त्रिदोषशमताकारित्वम् । वृव्यत्वम् । रसायनत्वम् । नातिशीतत्वम् । नात्यु- ष्णत्वम् । हृद्यत्वम् । भेदकत्वञ्च । इति राज- वल्लभः ॥ (तथाच भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥ “काकमाची त्रिदोषघ्नी स्निग्धोष्णास्वरशुक्रदा ॥ तिक्ता रसायनीशोथकुष्ठार्शोज्वरमेहजित् । कटुर्नेत्रहिता हिक्काच्छर्द्दिहृद्रोगनाशिनी” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काकमाची स्त्री।

काकमाची

समानार्थक:काकमाची,वायसी

2।4।151।2।3

विष्वक्सेनप्रिया गृष्टिर्वाराही बदरेत्यपि। मार्कवो भृङ्गराजः स्यात्काकमाची तु वायसी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काकमाची¦ स्त्री काकान् मञ्चते मचि--अण् पृषो॰ नलोपःपा॰ गौरा॰ ङीष्, मुग्ध॰ षण् ईप्। कट्फललतायाम्। (कठेया गुड्कामाइ) इति ख्याते वृक्षे भावप्र॰। तत्पर्य्यायगुणाद्युक्तं तत्रैव यथा--
“काकमाची ध्वाङ्क्ष-माची काकाह्वा चेव वायसी। माकमाची त्रिदोषर्घ्नस्निग्धोष्णा स्वरशुक्रदा। तिक्ता रसायनी शोथकुष्ठाशेज्वररोगजित्। कटुर्नेत्रहिता हिक्काच्छर्दिहृद्रोगनाशिनी
“काकमाचिजनितं मृदुशाकं वेशवारमिलितं शुभवासम्। तप्ततैलतलनेन सुपाकं कैरवाप्य न कृतं मुखवासम्” इत्यत्र वैद्यके असंज्ञायामपि
“ङ्यापोरिति” पा॰ ह्रस्वःइति बोध्यम्। स्वार्थे कन् काकमाचिकाऽप्यत्र।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काकमाची¦ f. (-ची) An esculent vegetable, commonly Gurkamai, (Sola- num Indicum.) E. काक, मच् to respect, &c. अण् and ङीष् affixes; also with कन् and टाप् added, काकमाचिका।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काकमाची/ काक--माची f. id. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=काकमाची&oldid=269159" इत्यस्माद् प्रतिप्राप्तम्