काकयवः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकयवः, पुं, (काकमीषज्जलं यत्र तादृशो यव इव नीरसत्वात्, यद्वा काकवन्निर्गुणो यवः ।) तण्डुल- शून्यधान्यम् । आग्डा इति भाषा ॥ (“यथा फलाः षण्डतिलाः यथा चर्म्ममया मृगाः । तथैव पाण्डवाः सर्व्वे यथा काकयवा इव” ॥ इति महाभारते सभापर्व्व ॥ तथा पञ्चतन्त्रे २ । ९५ । “यथा काकयवाः प्रोक्ता यथारण्यभवास्तिलाः । नाममात्रा न सिद्धौ हि धनहीनास्तथा नराः” ॥)
