काकरूक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकरूकः, पुं, (कु कुत्सितं करोतीति । कु + कृ + ऊकः । कोः कादेशः ।) स्त्रीजितः । उलूकः । दम्भः । दिगम्बरभीरुकनिर्धनेषु त्रि । इति हेम- चन्द्रः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकरूक¦ पु॰ कुत्सितं करोति कृ--ऊक कोः कादेशः।
१ स्त्री-जिते स्त्रीजितस्य स्त्रीमतानुसारेण कुत्सितकरणात्त-थात्वम्।
२ निर्द्धने
३ दिगम्बरे
४ भीरौ च त्रि॰। तेषाकुत्सिताचरणात् तथात्वम्। करणे ऊक।
५ दम्भे पु॰। दम्भेन धर्माचरणस्य कुत्सितत्वात् तस्य तथात्वम्। [Page1852-a+ 38] काकेन लूयते लू--छिदि कर्मणि क्विप् लस्य रः संज्ञायांकन्।
६ पेचके पुंस्त्री हेमच॰। तस्य काकच्छेद्यत्वा-त्तथात्वम्। स्त्रियां जातित्वात् ङीष्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकरूक v.l. for काकरुक.