काकोदरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकोदरः, पुं, (कु कुत्सितं अकति । कु + अक वक्र- गतौ + अच् । कोः कादेशः । काकं कुटिलगति- कारि उदरं यस्य बहुब्रीहिः ।) सर्पः । इत्यमरः । १ । ८ । ७ ॥ (यथा, राघवपाण्डवीये । “यः पूतनामारणलब्धवर्णः काकोदरो येन विनीतदर्पः । यशोदयालङ्कृतमूर्त्तिरव्या- न्नाथो यदूनामथवा रघूणाम्” ॥)
