काकोलः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकोलः, पुं क्ली, (कु कुत्सितं तीव्रतरं यथा स्यात् तथा कोलति पीडयति विह्वलीकरोति वा- ऽनेन करणे घञ् ।) कृष्णवर्णस्थावरविषविशेषः । इत्यमरः । १ । ८ । १० ॥ “काकोलमुग्रतेजः स्यात् कृष्णच्छविमहाविषम्” । इति वैद्यकम् ॥ (अस्य पर्य्यायो यथा, -- “काकोलो गरलक्ष्वेडो वत्सनाभः प्रदीपनः । शौक्लिकेयो ब्रह्मपुत्त्रो विषं स्याद्गरलो विषः” ॥ इति वैद्यकरत्नमाला ॥)
काकोलः, पुं, (कं जलमाकोलति संस्त्यायतीति । आ + कुल संस्त्याने + अण् ।) कुलालः । (कक लौल्ये स्वार्थे णिच् + बाहुलकात् ओल ।) द्रोणकाकः । इति मेदिनी । (यथा, मनुः ५ । १४ । “वकञ्चैव बलाकाञ्च काकोलं खञ्जरीटकम् । मत्स्यादान् विड्वराहांश्च मत्स्यानेव च सर्व्वशः” ॥) सर्पः । शूकरभेदः । इति शब्दरत्नावली ॥ काकोली नामख्यातौषधिविशेषः । इति धरणी ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकोलः [kākōlḥ], 1 A raven; Y.1.174; Mb.11.16.7.
A snake.
A boar.
A potter.
A division of the infernal regions or hell; महानरककाकोलं संजीवनमहापथम् Y.3.223.
A poisonous substance. -ली A drug prepared through अष्टवर्ग.
