काकोली
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकोली, स्त्री, (काकोल + गौरादित्वात् ङीष् ।) अष्टवर्गे प्रसिद्धौषधविशेषः । तत्पर्य्यायः । मधुरा २ काकी ३ कालिका ४ वायसोली ५ क्षीरा ६ ध्माङ्क्षिका ७ वीरा ८ शुक्ला ९ धीरा १० मेदुरा ११ ध्माङ्क्षोली १२ स्वादुमांसी १३ वयःस्था १४ जीवनी १५ शुक्लक्षीरा १६ पयस्विनी १७ । इति राजनिर्घण्टः ॥ पयस्या १८ शीतपाकी १९ । इति रत्नमाला ॥ अस्या गुणाः । शीतत्वम् । मधुरत्वम् । क्षयपित्तानिलार्त्तिरक्तदाहज्वरनाशित्वम् । कफ- शुक्रवर्द्धकत्वञ्च । इति राजनिर्घण्टः ॥ (क्षीरकाकोलीशब्दे चास्या विशेषविवरणं ज्ञातव्यम् ॥ काकोल्यादिगणोयथा, “काकोली- क्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपर्णीमेदा- महामेदाछिन्नरुहाकर्कटशृङ्गीतुगाक्षीरीपद्मकप्र- पौण्डरीकर्द्धिवृद्धिमृद्वीकाजीवन्त्योभधुकञ्चेति” । “क्राकोल्यादिरयं पित्तशोणितानिलनाशनः । जीवनो वृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा” ॥ इति सुश्रुते सूत्रस्थाने । ३८ अध्याये ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकोली¦ स्त्री काकोल + गौरा॰ ङीष्।
“जीवकर्षभकौमेदे काकोल्यौ ऋद्धिवृद्धिके। अष्टवर्गोऽष्टभिर्द्रव्यैःकथितश्चरकादिभिः” इति भावप्रकाशीक्ताष्टवर्गान्तर्गतेलताभेदे तद्भेदलक्षणगुणादिकं भावप्र॰ उक्तं यथा
“जायते क्षीरकाकोली महामेदोद्भवस्थले। यत्र स्यात्क्षीरकाकोली काकोली तत्र जायते। पीवरीस-दृशः कन्दः क्षीरं स्रवति गन्धवान्। सा प्रोक्ताक्षीरकाकोली काकोल्यपि तथा भवेत्। एषा किञ्चिद्-भवेत् कृष्णा भेदोऽयमुभयोरपि। काकोली वायसोली चवीरा कायस्थिका तथा। सा शुक्ला क्षीरकाकोली वयस्थाक्षीरवल्लिका। कथिता क्षीरिणी धारा क्षीरशुक्ला पय-स्विनी। काकोलीयुगलं शीतं शुक्रलं मधुरं गुरु वृहणंवातदाहास्रपित्तशोषज्वरापहम्”।
“सोमामृताश्वगन्धासुकाकोल्यादौ गणे तथा। क्षीरिप्ररोहेष्वपि च वर्त्तयो-रोपणाः स्मृताः”।
“समङ्गा सोमसरला सोमवल्का स-चन्दना। काकोल्यादिश्च कल्कःस्यात् प्रशस्तोव्रणरोपणे”।
“पृश्निपर्ण्यात्मगुप्ता च हरिद्रे मालती सिता। काको-ल्यादिश्च योज्यःस्यात् प्रशस्तोरोपणे घृते” इति च सुश्रु॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काकोली f. id. Car. vi , 13 ; viii , 10.
