काचः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काचः, पुं, (कच दीप्तौ + णिच् + घञ् ।) मृत्तिका- विशेषः । का~च् इति भाषा । तत्पर्य्यायः । क्षारः २ । इत्यमरः । २ । ९ । ९९ ॥ अस्य गुणाः । क्षार- रसत्वम् । उष्णवीर्य्यत्वम् । अञ्जनात् दृष्टिकारि- त्वञ्च । इति राजवल्लभः ॥ शिक्यम् । शिका इति भाषा ॥ मणिविशेषः । (यथा, “आकरे पद्मरागाणां जन्म काचमणेः कुतः” । इत्युद्भटः ॥) नेत्ररोगविशेषः । इति मेदिनी ॥ तस्य लक्षणम् । “अस्मिन्नपि तमोभूते नातिरूढे महागदे । चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः ॥ निर्म्मलानि च तेजांसि भ्राजिष्णूनीव पश्यति । स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः” ॥ इति माधवकरः ॥ (“प्राप्नोति काचतां दोषे तृतीयपटलास्रिते । तेनोर्द्धमीक्षते नाधस्तनुचेलावृतोपमम् ॥ यथावर्णञ्च रज्येत दृष्टिर्हीयेत च क्रमात् । तथाप्युपेक्षमाणस्य चतुर्थं पटलं गतः ॥ लिङ्गनाशं मनः कुर्व्वन् छादयेद्दृष्टिमण्डलम् । तत्र वातेन तिमिरे व्याविङ्गमिव पश्यति ॥ चलाविलारुणाभासं प्रसन्नञ्चेक्षते मुहुः । जालानि केशान् मशकान् रश्मींश्चोपेक्षितेऽत्र च ॥ काचीभूते दृगरुणापश्यत्यास्य मनासिकम् । चन्द्रदीपाद्यनेकत्वं वक्रमृज्वपि मन्यते ॥ वृद्धःकाचोदृशं कुर्य्याद्रजोधूमवृतामिव । स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम् ॥ सलिङ्गनाशो वाते तु सङ्कोचयति दृक्शिराः । दृङ्मण्डलं विशत्यन्तर्गम्भीरा दृगसौ स्मृता ॥ पित्तजे तिमिरे विद्युत् खद्योतोद्योतदीपितम् । शिखितित्तिरिपिच्छाभं प्रायोनीलञ्च पश्यति ॥ काचे दृक् काचनीलाभा तादृगेव च पश्यति । अर्केन्दुपरिवेषाग्निमरीचीन्द्रधनूंषि च ॥ भृङ्गनीला निरालोका दृङ्स्निग्धालिङ्गनाशतः । दृष्टिःपित्तेन ह्रस्वाख्या सा ह्रस्वा ह्रस्वदर्शना ॥ भवेत्पिण्डविदग्धाख्या पीतापीताभदर्शना । कफेन तिमिरे प्रायः स्निग्धं श्वेतञ्च पश्यति ॥ शङ्खेन्दुकुन्दकुसुमैः कुमुदैरिव चाचितम् । काचे तु निष्प्रभेन्द्वर्कप्रदीपाद्यैरिवाचितम् ॥ सिताभा सा च दृष्टिः स्यालिङ्गनाशे तु लक्ष्यते मूर्त्तः कफोदृष्टिगतः स्निग्धोदर्शननाशनः ॥ विन्दुर्जलस्येव चलः पद्मिनीपुटसंस्थितः । उष्णे सङ्कोचमायाभिश्छायायां परिसर्पति ॥ शङ्खकुन्देन्दु कुमुदस्फटिकोपमशुक्लिमा । रक्तेन तिमिरे रक्तं तमोभूतञ्च पश्यति । काचेन रक्ता कृष्णा वा दृष्टिस्तादृक् च पश्यति” ॥ इति वाभटे उत्तरस्थाने । १२ अध्याये ॥ विस्तृतविवरणमस्य नेत्ररोगशब्दे ज्ञातव्यम् ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काचः [kācḥ], 1 Glass, crystal; आकरे पद्मरागाणां जन्म काचमणेः कुतः H. Pr.38; काचमूल्येन विक्रीतो हन्त चिन्तामणिर्मया Śānti.1.12; मणिर्लुठति पादेषु काचः शिरसि धार्यते । यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः ॥ H.2.67.
A loop, a swinging shelf, a string so fastened to the yoke as to support burdens.
An eye-disease, an affection of the optic nerve, producing dimness of sight.
Alkaline ashes.
The string of the balance.
A house with a southern and a northern hall; पूर्वापरे तु शाले गृहचुल्ली दक्षिणोत्तरे काचम् Bṛi. S.53.4.
चम् Alkaline salt.
Wax. -Comp. -अक्षः N. of an aquatic bird (बक).-कामलम् a kind of disease of the eyes, (काचबिन्दु)-घटी a glass ewer. -भाजनम् a glass vessel.
मणिः crystal, quartz.
Metallic beads. शेषाः काचमणयः Kau. A.2.11. -मलम्, -लवणम्, -संभवम्, -सौवर्चलम् black salt or soda. -स्थाली N. of a tree (Mar. सागरगोटी).
