सामग्री पर जाएँ

काचलवणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काचलवणम्, क्ली, (काचात् क्षारमृत्तिकाया जातं लव- णम् ।) लवणविशेषः । कालालुण इति भाषा । तत्पर्य्यायः । नीलम् २ काचोद्भवम् ३ काचम् ४ नीलकम् ५ काचसम्भवम् ६ काचसौवर्च्चलम् ७ कृष्णलवणम् ८ पाकजम् ९ काचोत्थम् १० हय- गन्धम् ११ काललवणम् १२ कुरुविन्दम् १३ काच- मलम् १४ कृत्रिमम् १५ । अस्य गुणाः । रुचि- कारित्वम् । ईषत्क्षारत्वम् । पित्तवृद्धिकारित्वम् । दाहदातृत्वम् । कफवातगुल्मशूलनाशित्वम् । अग्नि- दीपनत्वञ्च । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=काचलवणम्&oldid=125933" इत्यस्माद् प्रतिप्राप्तम्