काञ्चनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काञ्चनः, पुं, (काञ्चते दीप्यते इति कर्त्तरि ल्युः ।) स्वनामख्यातपुष्पवृक्षविशेषः । रक्तश्वेतभेदेन स द्विविधः । आद्यस्य पर्य्यायः । रक्तपुष्पः २ कोवि- दारः ३ युग्मपत्रः ४ कुण्डलः ५ ॥ द्वितीयस्य पर्य्यायः । काञ्चनालः २ कर्ब्बुदारः ३ पाकारिः ४ । इति रत्नमाला ॥ अस्य राजनिर्घण्टोक्तगुणपर्य्यायौ कोविदारशब्दे द्रष्टव्यौ ॥ * ॥ चम्पकः । नाग- केशरः । उदुम्बरः । धुस्तूरः । इति मेदिनी ॥ (पुरूरवसो वंश उद्भवस्य भीमस्य पुत्त्रः । यथा, भागवते । ९ । १५ । ३ । “भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः” ॥)
