सामग्री पर जाएँ

काञ्चनारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काञ्चनारः, पुं, (काञ्चनं तद्वर्णं ऋच्छति पुष्यैः । काञ्चन + ऋ + अण् ।) कोविदारवृक्षः । इति राज- निर्घण्टः ॥ कच्नार इति हिन्दी भाषा ॥ (“काञ्च- नारः काञ्चनकः” इत्यादि पर्य्यायाः काञ्चनकशब्दे गुणाश्च कोविदारशब्दे ज्ञातव्याः ॥ व्यवहार्य्यते यत्र तद्यथा, -- “काञ्चनारत्वचः क्वाथः शुण्ठीचूर्णेन नाशयेत् । गण्डमालान्तथाक्वाथः क्षौद्रेण वरुणत्वचः” ॥ इति मध्यखण्डे २ अः शार्ङ्गधरेणोक्तम् ॥)

"https://sa.wiktionary.org/w/index.php?title=काञ्चनारः&oldid=125961" इत्यस्माद् प्रतिप्राप्तम्