काञ्जिकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काञ्जिकम्, क्ली, (अन्ज + धात्वर्थनिर्द्देशे ण्वुल् + टाप् अत इत्वञ्च । अञ्जिका । कु कुत्सिता अञ्जिका व्यक्तिर्यस्य कोः कादेशः ।) वारिपर्य्युषितान्नाम्लजलम् । का~जी इति भाषा । तत्पर्य्यायः । आरनालकम् २ सौवीरम् ३ कुल्माषम् ४ अभियुतम् ५ अवन्तिसोमम् ६ धान्याम्लम् ७ कुञ्जलम् ८ । इत्यमरः । २ । ९ । ३९ ॥ कुल्मासम् ९ कुल्माषाभियुतम् १० काञ्चिकम् ११ काञ्जीकम् १२ काञ्जिका १३ कञ्जिकम् १४ काञ्जी १५ भक्तवारि १६ धान्यमूलम् १७ धान्ययोनि १८ तुषाम्बु १९ । इति तट्टीका ॥ गृहाम्लम् २० महारसम् २१ । इति रत्नमाला ॥ तुषोदकम् २२ शुक्लम् २३ चुक्रम् २४ धातुघ्नम् २५ उन्नाहम् २६ रक्षोघ्नम् २७ कुण्डगोलकम् २८ सुवीराम्लम् २९ । इति हेमचन्वा ॥ वीरम् ३० अभिशवम् ३१ अम्ल- सारकम् ३२ । अस्य गुणा । वातशोथपित्तज्वर- दाहमूर्च्छाशूलाध्मानविबन्धनाशित्वम् । “काञ्जिकं दधि तैलन्तु बलीपलितनाशनम् । दाहकं गात्रशैथिल्यं बल्यं सन्तर्पणं परम्” ॥ मर्द्दनान्न च भक्षणात् । इति राजनिर्घण्टः ॥ अ- पि च । भेदकत्वम् । तीक्ष्णत्वम् । उष्णत्वम् । पित्तरुचिवस्तिशुद्ध्यग्निवृद्धिकारित्वम् । स्पर्शे शी- तलत्वम् । श्रमक्लमनाशित्वञ्च । पुरातनस्य तस्य गुणः । हृत्पाण्डुकृमिरोगनाशित्वम् । अग्निवृद्धि- कारित्वञ्च । इति राजबल्लभः ॥ * ॥ “कुल्माषधान्यमण्डेन चाशृतं काञ्जिकं भवेत् ॥ यन्मस्त्वादिशुचौ भाण्डे स गुडक्षौद्रकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते” ॥ इति वैद्यकपरिभाषा ॥
