काण्डपृष्ठ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काण्डपृष्ठम्, क्ली, (काण्डं तरुस्कन्ध इव स्थूलं पृष्ठं यस्य ।) कर्णधनुः । इति महाभारतम् ॥
काण्डपृष्ठः, त्रि, (काण्डः वाणः पृष्ठे यस्य ।) काण्ड- स्पृष्टः । शस्त्राजीवः । इत्यमरटीकायां स्वामी ॥ (“स्त्रीपूर्ब्बाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ ! । अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम्” ॥ इति महाभारते । १३ । २३ । २२ ॥) वैश्यापतौ पुं । इति दानधर्म्मः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काण्डपृष्ठ पुं।
आयुधजीविः
समानार्थक:शस्त्राजीव,काण्डपृष्ठ,आयुधीय,आयुधिक
2।8।67।2।2
पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः। शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः॥
स्वामी : सैन्याधिपतिः
वृत्ति : आयुधम्
पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काण्डपृष्ठ¦ न॰ काण्डं वृक्षस्कन्धैव स्थूल पृष्ठमस्य।
१ स्थूलपृष्ठे धमुरादौ। काण्डः पृष्ठेऽस्य।
२ शस्त्राजीविनिपु॰।
“स्त्रीपूर्व्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ!। अजपा ब्राह्मणश्चैव श्राद्धं नार्हन्ति केतनम्” भा॰अनु॰
२३ अ॰।
“अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैवच” भा॰ अनु॰
१० अ॰ अपाङ्क्तेयकथने।
“चिकित्सकःकाण्डपृष्ठः पुराध्यक्षः पुरोहितः” भा॰ अनु॰
१३
५ अ॰अभोज्यान्नकथने। पाप्रिनां तिर्य्यग्योनितः काण्डपृष्ठता-प्राप्तिश्च क्रमशो यथा भवति तथा भा॰ अनु॰
२८ अ॰निरूपितं यथा
“तिर्य्यग्योनिगतः सर्व्वोमानुष्यं यदिगच्छति। स जायते पुक्कशो वा चण्डालो वाऽप्य-संशयः। पुक्कशः पापयोनिर्वा यः कश्चिदिह लक्ष्यते। स तस्यामेव सुचिरं मातङ्गः परिवर्त्तते। ततोदशशतेकाले लभते शूद्रयोनिताम्। शूद्रयोनावपि ततोबहुशः परिवर्त्तते। ततस्त्रिंशद्गुणे काले लभतेवैश्यतामपि। वैश्यतायां चिरं कालं तत्रैव परिवर्त्तते। ततः षष्टित्रये काले लभते ब्रह्मबन्धुताम्। ब्रह्मबन्धुश्चिरंकालं तत्रैव परिवर्त्तते। ततस्तु द्विशते काले लभतेकाण्डपृष्ठताम्। काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्त्तते। ततस्त त्रिशते काले लभते जडतामपि। ताञ्च प्राप्य चिरंकालं तत्रैव परिवर्त्तते। ततश्चतुःशत काले श्रोत्रियोनाम जायते”।
“स्वकुलं पृष्ठतः कृत्वा योवै परकुलंव्रजेत्। तेन दुश्चरितेनासौ काण्डपृष्ठ इति स्मृतः” स्मृत्यन्तरोक्तकर्म्मविपाकः काण्डपृष्ठता।
३ वेश्यापतौशब्दकल्पद्रुमः तन्मूलं मृग्यम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काण्डपृष्ठ/ काण्ड--पृष्ठ m. " arrow-backed " , a Brahman who lives by making arrows and other weapons MBh. (See. काण्ड-स्पृष्ट)
काण्डपृष्ठ/ काण्ड--पृष्ठ m. a soldier W.
काण्डपृष्ठ/ काण्ड--पृष्ठ m. the husband of a courtezan
काण्डपृष्ठ/ काण्ड--पृष्ठ m. an adopted or any other than a natural son W.
काण्डपृष्ठ/ काण्ड--पृष्ठ n. the bow of कर्णL.
काण्डपृष्ठ/ काण्ड--पृष्ठ n. the bow of कामW.
