सामग्री पर जाएँ

काण्डपृष्ठः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काण्डपृष्ठः, त्रि, (काण्डः वाणः पृष्ठे यस्य ।) काण्ड- स्पृष्टः । शस्त्राजीवः । इत्यमरटीकायां स्वामी ॥ (“स्त्रीपूर्ब्बाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ ! । अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम्” ॥ इति महाभारते । १३ । २३ । २२ ॥) वैश्यापतौ पुं । इति दानधर्म्मः ॥

"https://sa.wiktionary.org/w/index.php?title=काण्डपृष्ठः&oldid=126020" इत्यस्माद् प्रतिप्राप्तम्