काण्डीरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काण्डीरः, त्रि, (काण्डः वाणः अस्त्यस्य । काण्ड + “काण्डाण्डादीरन्नीरचौ” । ५ । २ । १११ । इति ईरन् ।) काण्डास्त्रवान् । इत्यमरः । २ । ८ । ६९ ॥ तीरान्दाज इति भाषा ॥ (यथा भट्टिः ४ । १० । “काण्डीरः खाड्गिकः शार्ङ्गी रक्षन् विप्रस्तनुत्रवान्” ॥)
काण्डीरः, पुं, (काण्डः स्तम्बः अस्यास्तीति । काण्ड + “काण्डाण्डादीरन्नीरचौ” । ५ । २ । १११ । इति ईरन् ।) अपामार्गवृक्षः । लताप्रभेदः । काण्ड- वेल इति ख्यातः । तत्पर्य्यायः । काण्डकटुकः २ नासासंवेदनः ३ पटुः ४ अग्रकाण्डः ५ स्तोमवल्ली ६ कारवल्ली ७ सुकाण्डिका ८ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । सारकत्वम् । दुष्टव्रणलूतागुल्मोदरप्लीहशूलमन्दाग्निनाशित्वञ्च । इति राजनिर्घण्टः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काण्डीरः [kāṇḍīrḥ], [काण्ड-इरन् ईरच् वा P.V.2.111.] An archer (this word also is sometimes used like काण्डपृष्ठ as a term of reproach; cf. Mv.3.)
