कातरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कातरः, त्रि, (कु कष्टेन तरतीति । कु + तॄ + अच् । कोः कादेशः ।) व्यसनाकुलचित्तः । व्याकुलः । तत्पर्य्यायः । अधीरः २ । इत्यमरः । ३ । १ । २६ ॥ (यथा रघुः ११ । ७८ । “कातरोऽसि यदि वोद्गतार्चिषा तर्ज्जितः परशुधारया मम” ॥)
कातरः, पुं, (कं जलं आतरति । क + आ + तॄ + अच् ।) कातलमत्स्यः । इति शब्दरत्नावली ॥
