कान्तः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कान्तः, त्रि, (काम्यते इति । कम् + कर्म्मणि क्तः “यस्य विभाषा” । ७ । २ । १५ । इति नेट् । अनुनासि- कस्येति दीर्घः ।) मनोरमः । शोभनः । इत्यमरमे- दिनीकरौ ॥ (यथा, “मलिनमपि मृगाक्ष्या बल्कलं कान्तरूपं न मनसि रुचिभङ्गं स्वल्पमप्यादधाति” । इति शाकुन्तले १ अङ्के ॥)
कान्तः, पुं, (कम् + क्त ।) श्रीकृष्णः । चन्द्रः । इति शब्दरत्नावली ॥ पतिः । (यथा मेघदूते । १०१ । ‘कान्तोदन्तः सुहृदुपनतः सङ्गमात् किञ्चिदूनः’ ॥) चन्द्रसूर्य्यायःपर्य्यायान्तःशिला । यथा । चन्द्रकान्त- सूर्य्यकान्तायस्कान्तादयः । इति मेदिनी ॥ हिज्जल- वृक्षः । वसन्त ऋतुः । इति राजनिर्घण्टः ॥ (विष्णुः । यथा, महाभारते १३ । १४९ । ४५ । “कामहा कामकृत् कान्तः कामः कामप्रदःप्रभुः” ॥ शिवः । यथा, तत्रैव १३ । १७ । १४८ । “गुहः कान्तो निजः सर्पः पवित्रं सर्व्वपावनः” ॥ कार्त्तिकेयः । यथा, तत्रैव २ । २३१ । ४ । “कामजित् कामदः कान्तः सत्यवाग्भुवनेश्वरः” ॥)
