कान्तम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कान्तम्, क्ली, (कनते दीप्यते इति । कन + कर्त्तरि क्तः ।) कुङ्कुमम् । इति राजनिर्घण्टः ॥ लौहविशेषः । तस्य लक्षणं यथा, -- “स्वादुर्यत्र भवेन्निम्बकल्को रात्रिन्दिवोषितः । कान्तं तदुत्तमं यच्च रूप्येणावर्त्तितं मिलेत्” ॥ तस्य परीक्षा । यथा । पात्रे यस्मिन् विसरति जले तैलविन्दुर्निषिक्तो विद्धं गन्धं विसृजति निजं रूपितं निम्बकल्कैः । पाके दुग्धं भजति शिखराकारतां नैति भूमौ कान्तं लौहं तदिदमुदितं लक्षणोक्तं न चान्यत्” ॥ इति सुखबोधः ॥ अपि च । “यत्पात्रे न प्रसरति जले तैलविन्दुर्निषिक्तो हिङ्गुर्गन्धं त्यजति भजते स्वादुतां निम्बकल्कः । पाच्यं दुग्धं भवति सिकतापुञ्जवन्नैति भूमौ कृष्णाङ्गः स्यात् सजलचणकः कान्तलौहंवदन्ति” ॥ इतिवैद्यकम् ॥ (वैद्यकरसेन्द्रसारसंग्रहे वृहत्सर्व्व ज्वरहरलौहेऽस्य व्यवहारो यथा, -- “पारदं गन्धकं शुद्धं ताम्रमभ्रञ्च माक्षिकम् । हिरण्यं तारतालञ्च कर्षमेकं पृथक् पृथक् ॥ मृतं कान्तं पलं देयं सर्व्वमेकीकृतं शुभम्” ॥)
