कान्तलोह
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कान्तलोहम्, क्ली, (कान्तं लौहश्रेष्ठत्वात् कमनीयं लोहम् ।) अयस्कान्तः । इति राजनिर्घण्टः ॥ (अस्य परीक्षादिकं कान्तशब्दे द्रष्टव्यम् ॥ अस्य निरुत्थी- करणं यथा, ॥ “शुद्धस्य सुतराजस्य भागो भागद्वयं बलेः । द्वयोः समं लौहचूर्णं मर्द्दयेत् कन्यकाद्रवैः ॥ यामद्वयं ततो गोलं स्थापयेत्ताम्रभाजने । आच्छाद्यैरण्डजैः पत्रैरुष्णो यामद्वयाद्भवेत् ॥ त्रिदिनं धान्यराशिस्यं तत्ततोमर्द्दयेद्दृढम् । रजस्तद्वस्त्रगलितं नीरे तरति हंसवत् ॥ तीक्ष्णं मुण्डं कान्तलोहं निरुत्थं जायते भृशम्” “ततः कोटिसहस्रैर्व्वा कान्तलोहं महागुणम्” ॥ इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा धि कारे ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कान्तलोह¦ पु॰ कान्तं प्रियंलोहं यस्य। अयस्कान्त। कर्म्म॰। (कान्तिलौह) लौहसारे। कान्तशब्दे तद्गुणाद्युक्तम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कान्तलोह/ कान्त--लोह n. the loadstone L.