कान्तिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कान्तिः, स्त्री, (कमु कान्तौ कन् दीप्तौ वा + भावे क्तिन् ।) दीप्तिः । तत्पर्य्यायः । शोभा २ द्युतिः ३ छविः ४ । इत्यमरः । १ । ३ । १० ॥ शुभा ५ दीप्तिः ६ भा ७ श्रीः ८ भासा ९ भाः १० । इति शब्द- रत्नावली ॥ अभिख्या ११ । इति जटाधरः ॥ * ॥ (यथा, विष्णुपुराणे १ मांशे ८ । २३ । “शशाङ्कः श्रीधरः कान्तिः श्रीस्तस्यैवानपायिनी” ॥) कान्तिकारकपर्य्याया यथा । रश्मि १ उश्मसि २ वेति ३ वेनति ४ वेसति ५ वाञ्छति ६ वष्टि ७ वनोति ७ जूषते ९ हर्षति १० आचके ११ उशिक् १२ मन्यते १३ छन्तसत् १४ चाकनत् १५ चक- मानः १६ कमति १७ कानिषत् १८ इत्यष्टादश- कान्तिकर्म्माणः । इति वेदनिघण्टौ २ अध्यायः ॥ स्त्रीशोभा । इति हेमचन्द्रः ॥ (यथा साहित्यदर्पणे । “रूपयौवनलालित्वं भोगाद्यैरङ्गभूषणम् । शोभा प्रोक्ता सैव कान्तिर्मन्मथाप्यायिता द्युतिः” ॥) इच्छा । स्पृहार्थकमधातोर्भावे क्तिन् प्रत्ययः । दुर्गा । यथा, -- देविपुराणे देवीनिरुक्तनाम ४५ अध्याये ॥ “स्तुतिः सिद्धिरिति ख्याता श्रिया संश्रयणाच्च या । लक्ष्मीर्वा ललना वापि क्रमात् सा कान्तिरुच्यते” ॥ (गङ्गा । यथा, काशीखण्डे गङ्गास्तोत्रे २९ । ४० । “कुमुद्वतो कमलिनी कान्तिः कल्पितदायिनी” ॥ “कान्तिश्चन्द्रतेजोरूपा” । इति तट्टीका ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कान्तिः [kāntiḥ], [कम् भावे क्तिन्]
Loveliness, beauty, Me. 15; अक्लिष्टकान्ति Ś.5.19.
Brightness, lustre, brilliance; Me.84.
Personal decoration or embellishment.
Wish, desire.
(In Rhet.) Beauty enhanced by love; (S. D. thus distinguishes कान्ति from शोभा and दीप्तिः रूपयौवनलालित्यं भोगाद्यैरङ्गभूषणम् । शोभा प्रोक्ता सैव कान्ति- र्मन्मथाप्यायिता द्युतिः । कान्तिरेवातिविस्तीर्णा दाप्तिरित्यभिधीयते 13, 131).
A lovely or desirable woman.
An epithet of Durgā.
A digit of the moon.
N. of Lakṣmī; भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् Bhāg.1.65.29.-Comp. -कर a. beautifying, illuminating, brightening. -द a. beautifying, adorning.
(दम्) bile.
clarified butter. -द, -दायक, -दायिन् a. adorning.-भृत् m. the moon.
