सामग्री पर जाएँ

कान्यकुब्जम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कान्यकुब्जम्, क्ली, (कन्याः कुब्जा न्युब्जीकृता वायुना यत्र । ततः स्वार्थे अण् ।) गङ्गातीरस्थपुरविशेषः । कनज् इति भाषा । तत्पर्य्यायः । महोदयम् २ कन्याकुब्जम् ३ गाधिपुरम् ४ कौशम् ५ कुश- स्थलम् ६ । इति हेमचन्द्रः ॥ (यथा, महाभरते ३ । ११५ । १९ । “एतस्मिन्नेव काले तु पृथिव्याः पृथिवीपतिः । कान्यकुब्जे महानासीत् पार्थिवः सुमहाबलः । गाधीति विश्रुतो लोके वनवासं जगाम ह” ॥ एतद्पुरविवरणं कन्याकुब्जशब्दे द्रष्टव्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=कान्यकुब्जम्&oldid=126116" इत्यस्माद् प्रतिप्राप्तम्