सामग्री पर जाएँ

कापालिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कापालिकः, पुं, (कपालेन नृकपालेन चरति अभ्य- वहारादिकं करोतीति । कपालं + ठक् ।) वर्ण- सङ्करजातिविशेषः । इति तन्त्रसारः ॥ कपालि इति भाषा । वामाचारिविशेषः । यथा, -- “अथ तीर्णकराग्रणीः प्रतस्थे कापालिकजालकं विजेतुम्” । इति शङ्करविजयः ॥ (योगिविशेषः । यथा हट- योगदीपिकायां १ । ८ । “भानुकी नारदेवश्च खण्डः कापालिकस्तथा” ॥ तत्सम्प्रदायश्च यथा तत्रैव ३ । ९६ । “निषेव्यते शीतलमध्यधारा कापालिके खण्डमते ऽमरोली” ॥ “कापालिकस्यायं कापालिकस्तस्मिन् कापालिके खण्डकापालिकसम्प्रदाये इत्यर्थः” ॥ इतितट्टीका ॥)

"https://sa.wiktionary.org/w/index.php?title=कापालिकः&oldid=126128" इत्यस्माद् प्रतिप्राप्तम्