कामचारी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कामचारी, [न्] त्रि, (कामेन स्वेच्छया चरति । काम + चर + णिनिः ।) कामुकः । (यथा “पुरन्दरं च जानीते परस्त्रीकामचारिणम्” ॥ इति महाभारतम् ॥) स्वच्छन्दः ॥ कलविङ्कः । इति मेदिनी ॥
कामचारी, [न्] पुं, (कामेन इच्छानुसारेण चरति विहरति । काम + चर + णिनिः ।) गरुडः । इति शब्दरत्नावली ॥
