कामधर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कामधरः, पुं, (कामरूपं कामस्य संज्ञां वा धरति धारयति वा । काम + धृ + अच् ।) कामरूपस्य मत्स्यध्वजपर्व्वतस्थसरोवरः । यथा, -- “मणिकूटाचलात् पूर्ब्बं मत्स्यध्वजकुलाचलः । निर्द्दग्धो यत्र मदनो हरनेत्राग्निना पुनः ॥ शरीरं प्राप्य तपसा समाराध्य वृषध्वजम् । तत्र मत्स्यस्वरूपस्तु कामदेवेन संस्थितः ॥ अधित्यकायां पृथिवीं वीक्ष्यमाणः समन्ततः । तदा तु शाश्वती नाम तत्रास्ते दक्षिणस्रवा ॥ सरः कामधरो नाम तस्मिन् शैले व्यवस्थितः । शाश्वत्यां विधिवत् स्रात्वा पीत्वा कामधराम्भसि ॥ विमुक्तपापः शुद्धात्मा शिवलोके महीयते” ॥ इति श्रीकालिकापुराणे ८१ अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कामधर¦ पु॰ कामरूपस्थमत्स्यध्वजपर्व्वतस्थिते सरोवरभेदेकालि॰
८१ अ॰। तत्स्थानस्नानमाहात्म्याद्युक्तम्।
“मणिकूटाचलात् पूर्व्वं मत्स्यध्वजकुलाचलः। निर्द्दग्धोयत्र मदनो हरनेत्राग्निना पुनः। शरीरं प्राप्य तपसासमाराध्य वृषघ्वजम्। तत्र प्राप्य स्वरूपन्तु काम-देवेन संस्थितम्। अधित्यकायां तस्थौ स वीक्षमाणः सम-न्ततः। तदा तु शाश्वती नाम तत्रास्ते दक्षिणस्रवा। सरः कामधरो नाम तस्मित् शैले व्यवस्थितः। आश्वि-न्यां विधिवत् स्नात्वा पीत्वा कामधराम्भसि। विमुक्त-पापः शुद्धात्मा शिवलोके महीयते”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कामधर/ काम--धर m. N. of a lake in काम-रूपKa1lP.