कामप्रदः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कामप्रदः, पुं, (कामं कामजरतिभेदं प्रददाति । काम + प्र + दा + कः ।) रतिबन्धविशेषः । यथा, -- “द्वौ पादौ स्कन्धसंलग्नौ क्षिप्त्बा लिङ्गं भगे तथा । कामयेत् कामुकः प्रीत्या बन्धः कामप्रदो हि सः” ॥ इति स्मरदीपिका ॥ (कामानां सर्व्वेषां पुरु- षार्थाणां प्रदः । विष्णुः । यथा महाभारते । १३ । १४९ । ४५ । “कामहा कामकृत् कान्तः कामः कामप्रदः प्रभुः” ॥)
