सामग्री पर जाएँ

काममह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काममहः, पुं, (कामस्य महः उत्सवो यत्र ।) चैत्री पूर्णिमा । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काममह¦ पु॰

६ त॰। चैत्रमासे कर्त्तव्ये कामस्य

१ महोत्-सवे तदाधारत्वात्

२ चैत्रपौर्ण्णमास्यां त्रिका॰। काममहस्य चैत्रपौर्ण्णमास्यांकर्त्तव्यतोक्तिः प्रायिकी शत्रो-देवताभिप्राया वा तिथितत्त्वे भविपु॰
“चैत्रशुक्लत्रययेश्यद्वदमनं मदनात्मकम्। कृत्वा संपूजयेत् कामं वीजयेद्व्यजनेन[Page1898-a+ 38] तु। तत्र सन्धुक्षितः कामः पुत्रपौत्रप्रवर्द्धनः। कामदेव-स्त्रयोदश्यां पूजनीयो यथाविधि”। इति चैत्रत्रयोदश्यांतत्पूजनबिधानात्” नि॰ सि॰ रामार्चनच॰
“द्वादश्यांचैत्रमासस्य शुक्लायां मदनोत्सवः। बौधायनादिभिः प्रोक्तःकर्त्तव्यः प्रतिवत्सरम्” तदीयद्वादश्यां विधानात्
“तत्रस्यात् स्वीयतिथिषु वह्न्यादेर्दमनार्पणमिति” पाद्मोक्तेःवह्न्यादिभक्तानां स्वस्वतिथिष्वपि विधानात्। तत्र तिथि-देवताश्च
“वह्नि

१ र्विरिञ्चि

२ र्गिरिजा

३ गणेशः

४ फणी

५ विशाखो

६ दिनकृत्

७ महेशः।

८ दुर्गा

९ ऽन्तको

१० विश्व

११ हरी

१२ स्मरश्च

१३ शर्वः

१४ शची

१५ चेति तिथीषुपूज्याः” इत्युक्ता वेद्याः। एतदनुसारेण
“शिवभक्तादिभिस्तुचतुर्दश्यां कार्य्यमिति नि॰ सि॰ व्यवस्थापितम्। रघु-नन्दनेन त्रयोदश्यां कार्य्यतोक्तिः त्रयोदश्याः स्मरतिथि-त्वादन्यदेवतानुपासकाभिप्रायेणेति न विरोधः। तस्यनित्यतोक्ता नि॰ सि॰ पाद्मे
“ऊर्जे व्रतं मधौ दोलाम्श्रावणे तन्तुपूजनम्। चैत्रे च दमनारोपमकुर्व्वाणोव्रजत्यधः” प्रागुक्तरामार्चनच॰ वाक्ये च प्रतिसंवत्सर-मित्युक्तेरपि नित्यता। सा च त्रयोदशीकरणपक्षेद्वादशीयुक्ता ग्राह्या
“त्रयोदशी प्रकर्त्तव्या द्वादशी संयुताविभो!। ति॰ त॰ ब्रह्मवैवर्त्तात्। द्वादशीकरण-पक्षे विशेषः” नि॰ सि॰ रामार्चनच॰ उक्तो यथा।
“पारणाहे न लभ्येत द्वादशी घटिकाऽपि चेत्। तदात्रयोदशी ग्राह्या पवित्रदमनार्पणे”। चतुर्द्दशीकरणपक्षेपूर्ब्बविद्धैव ग्राह्या।
“मधोः श्रावणमासस्य या च शुक्लाचतुर्द्दशी। सा रात्रिव्यापिनी ग्राह्या नान्या शुक्लाकटाचनेति” हेमाद्रौ बौधायनोक्तेः। अन्यदिवसकरणे तुतन्तुदामनपर्व्वणोत्युक्तवाक्योत पूर्ब्बविद्धैव तिथिर्ग्राह्या। दैवात् चैत्रे तदकरणे गौणः काल उक्तः” नि॰ सि॰रामार्चनच॰।
“हरौ द्विदश्यां) न दमनारोपः स्यान्मधौविघ्नतोयदि। वैशाखे श्रावणे वापि तत्तिथौ स्यात्तदर्प-णम्” आवणे वापि शुक्रास्ते कर्त्तव्यमिति इति वा तत्र-पाटः। इदञ्च मलमासे न कार्य्यम्”
“उपाकर्म्मोत्-सर्जनञ्च पवित्रदमनार्पणमिति” कालादर्शे मलमासवर्ज्येषुपरिगणनात्। उपाकर्म्म च हव्यञ्च कार्य्यं पर्व्वोत्-सवं तथा। उतरे नियतं कुर्य्यात् पूर्ब्बे तन्निष्फलं भवेत्” कालमा॰ प्रजापतियचनाच्च। शुक्रास्तादौ तु कार्य्यएव। रामार्चनच॰ पूर्व्वोक्तवचनात्”
“उपाकर्म्मोत्सर्जनञ्चपवितदमनार्पणम्। ईशानस्य बलिं विष्णोः शयनं परि-[Page1898-b+ 38] वर्त्तनम्। कुर्य्याच्छुक्रस्य च गुरोर्मौढ्येऽपीति विनिश्चयः” वृद्धगर्गवचनाच्च। इति दमनारोपरूपकाममहोत्सव-स्तिथिभेदेन दर्शितः। अनङ्गव्रतरूपस्तन्महोत्सवस्तु चैत्रशुक्लत्रयोदश्यामेव। हेमाद्रौ कालखण्डे भविष्ये
“चैत्रो-त्सवे सकललोकमनोविलासे कामं त्रयोदशतिथौच वसन्तयुक्तम्। पत्न्या सहार्च्य पुरुषप्रवरोऽथयोषित् सौभाग्यरूपमुतसौख्ययुतः सदा स्यात्” सा चपूर्ब्बयुता ग्राह्या
“त्रयीदशतिथिः सिते” इति पूर्ब्बविद्धाग्रहणे दीपिकोक्तेः। एवं च काममहशब्देन लक्षणयातदाधारपरत्वे चैत्रशुक्लत्रयोदश्येव ग्राह्येति तु न्याय्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काममह¦ m. (-हः) The day of full moon in the month Chaitra, (March- April.) E. काम the deity, and मह worship; a festival in honour of KAMA.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काममह/ काम--मह m. the festival of the god of love (on the day of full moon in the month चैत्रor March-April) L.

"https://sa.wiktionary.org/w/index.php?title=काममह&oldid=495793" इत्यस्माद् प्रतिप्राप्तम्