कामरूपः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कामरूपः, पुं, (मूलप्रकृतिर्भगवती कामरूपिणी सती यत्र देशे विराजमाना स देशस्तन्नाम्ना एव उच्यते ।) स्वनामख्यातदेशः । तत्पर्य्यायः । प्राग्- ज्योतिषः २ । इति त्रिकाण्डशेषः ॥ तत्र काम- गिरौ योनिपीठे कामाख्या देवी वर्त्तते । यथा । “योनिपीठं कामगिरौ कामाख्या तत्र देवता” । “सर्व्वत्र विरला चाहं कामरूपे गृहे गृहे” ॥ इति तन्त्रचूडामणौ पीठमाला ॥ (अयं हि गणेश- गिरिशिखरस्थो देशः । यदुक्तं तन्त्रे । “कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्व्वतम् । कामरूपाभिधो देशो गणेशगिरिमूर्द्ध्वनि” ॥ कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्व्वतं यावत् ॥ अयं खलु वङ्गदेशस्य ईशानभागे आसामप्रदेशस्य पश्चिमभागे वर्त्तते ॥)
कामरूपः, त्रि, (कामं काम्यं मनोहरं रूपं यस्य ।) मनोज्ञरूपः । स्वेच्छारूपः । (यथा महाभारते । १ । सुपर्णस्तुतौ २३ । ६ । “कामरूपः कामगर्भः कामबीर्य्यो विहङ्गमः” ॥) तथा च । मेघदूते ६ । “जातं वंशे भूवनविदिते पुष्करावर्त्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः” ॥
