कामरूपी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कामरूपी, [न्] पुं, (कामं कमनीयं रुपमस्यास्तीति । कामरूप + इनिः ।) विद्याधरः । इति त्रि- काण्डशेषः ॥ जाहकजन्तुः । इति राजनिर्घण्टः ॥ (कामेन स्वेच्छया रूपं धार्य्यत्वेनास्त्यस्य इनिः ।) मनोज्ञरूपिणि स्वेच्छारूपिणि च त्रि । यथा, -- “सर्व्वमाशु विचेतव्यं हरिभिः कामरूपिभिः” ॥ इति रामायणम् ॥
