सामग्री पर जाएँ

कामलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कामलः, पुं, स्त्री, (कम + णिच् + कलच् ।) रोग- विशेषः । का~ओल कामला इति च प्रसिद्धिः । इति मेदिनी ॥ तस्य निदानसम्प्राप्ती यथा, -- “पाण्डुरोगी च योऽत्यर्थं पित्तलानि निषेवते । तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते” ॥ तस्य लक्षणम् । “हारिद्रनेत्रः सुभृशं हारिद्रत्वङ्नखाननः । रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रियः ॥ दाहाविपाकदौर्ब्बल्यसदनारुचिकर्षितः । कामला बहुपित्तैषा कोष्ठशाखाश्रया मता । कालान्तरात् खरीभूता कृच्छ्रा स्यात्कुम्भकामला” ॥ तस्यारिष्टलक्षणम् । “कृष्णपीतशकृन्मूत्रो मृशं शूवश्च मानवः । सरक्ताक्षिमुखच्छर्द्दिविण्मूत्रो यश्च ताम्यति ॥ दाहारुचितृडानाहतन्द्रामोहसमन्वितः । नश्यति श्वासकासार्त्तो विड्भेदी कुम्भकामली” ॥ इति माधवकरः ॥

कामलः, पुं, (कामयते अभीष्टमस्मिन् । कम + अ- धिकरणे + कलच् ।) वसन्तकालः । मरुभूमिः । (कामं लाति गृह्णातीति । काम + ला + कः ।) का- मुके त्रि इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=कामलः&oldid=126209" इत्यस्माद् प्रतिप्राप्तम्