सामग्री पर जाएँ

कामाग्निसन्दीपनमोदकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कामाग्निसन्दीपनमोदकम्, क्ली, (सन्दीप्यते अनेनेति सन्दीपनम् । कामाग्नीनां सन्दीपनमुद्दीपकम् । कामाग्निसन्दीपनञ्च तत् मोदकञ्चेति ।) औषध- विशेषः । यथा, -- “कर्षो रसो गन्धकमभ्रकञ्च द्विक्षारचित्रे लवणानि पञ्च । शटी यमानीद्वयकीटहारि तालीशपत्राण्यपरं द्विकर्षम् ॥ जीरं चतुर्ज्जातलवङ्गजाती- फलञ्च कर्षत्रयमेवमन्यत् । सवृद्धदारं कटुकत्रयञ्च तथा चतुःकर्षमितं निबोध ॥ धन्याकयष्ठीमधुकं कशेरु- कर्षाः पृथक् पञ्च वरी विदारी । वरेभकणेभबलात्मगुप्ता- वीजं तथा गोक्षुरवीजयुक्तम् ॥ सवीजपत्रेन्द्ररजःसमानं- समासिता क्षौद्रघृतञ्च तुल्यम् । कर्षैकमिन्दोरथमोदकं तत् कामाग्निसन्दीपनमेतदुक्तम्” ॥ * ॥ “वृष्यं ततः परतरं सततं न दृष्ट- मेनं निषेव्य मनुजः प्रमदासहस्रम् । गच्छन्न लिङ्गशिथिलत्वमवाप्नुयाच्च नागाधिपं विजयते बलतः प्रमत्तः ॥ कान्त्या हुताशनमपि स्वरतो मयूरान् वाहं यवेन नयनेन महाविहङ्गम् । बातानशीतिमथपित्तगदं समग्रं श्लेष्मोत्थविंशतिरुजः परमग्निमान्द्यम् ॥ दुर्न्नामकामलभगन्दरपाण्डुरोग- मेहातिसारकृमिहृद्ग्रहणीप्रदोषान् । कासज्वरश्वसनपीनसपार्श्वशूल- शूलाम्लपित्तसहितांश्चिरजान् समस्तान् ॥ हत्वा गदानपि च तत् पुनरपत्यकारि सर्व्वर्त्तुपथ्यमथ सर्व्वसुखप्रदायि । वृष्यं बलीपलितहारि रसायनं स्यात् श्रीमूलदेवकथितं परमं प्रशस्तम्” ॥ इति भैषज्यरत्नावली ॥