सामग्री पर जाएँ

कामान्धा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कामान्धा, स्त्री, (कामं यथेष्टं अन्धयति । अन्ध + णिच् + अच् + टाप् ।) कस्तूरी । इति राजनिर्घण्टः । (स्मरेण अन्धा । कर्त्तव्यज्ञानशून्या । प्रगल्मा- नायिकाविशेषः । यथा, साहित्यदर्पणे ३ । ७० । “ल्मरान्धा गाढतारुण्या समस्तरतकोविदा । भावोन्नता दरव्रीडा प्रगल्माक्रान्तनायका” ॥ अस्या उदाहरणं यथा तत्रैव । “धन्यासि या कथयसि प्रियसङ्गमेऽपि विश्रब्धचाटुकशतानि रतान्तरेषु । नीबीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कामान्धा¦ स्त्री कामं यथेष्टमन्धयति अन्ध--अच्। कस्तूर्य्यांराजनि॰। तस्याः कृष्णरूपत्वेन यथेष्टान्धकारतुल्यत्वात्तथात्वम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कामान्धा/ कामा f. musk L.

"https://sa.wiktionary.org/w/index.php?title=कामान्धा&oldid=272010" इत्यस्माद् प्रतिप्राप्तम्