कामुकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कामुकः, त्रि, (कामयते इति । “लषपतपदेत्या- दिना” । ३ । २ । १५४ । उकञ् ।) कामी । तत्प- र्य्यायः । कमिता २ अनुकः ३ कम्रः ४ कामयिता ५ अभीकः ६ कमनः ७ कामनः ८ अभिकः ९ । इत्यमरः । ३ । १ । २० ॥ (यथा, भागवते ९ । २३ । १७ । “दुष्यन्तः स पुनर्भेजे स्ववंशं राज्यकामुकः” ॥)
कामुकः, पुं, (कम + उकञ् ।) अशोकवृक्षः । अति- मुक्तकलता । इति मेदिनी ॥ चटकः । इति राजनिर्घण्टः ॥
