सामग्री पर जाएँ

कामेश्वरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कामेश्वरी, स्त्री, (काम्यन्ते इति कामा विषयास्तेषां भोग्यानां प्रदायित्वेन ईश्वरी ।) कामाख्यापञ्च- मूर्त्त्यन्तर्गतमूर्त्तिविशेषः । यथा, -- “देव्याश्चापि नरश्रेष्ठ ! पञ्च रूपाणि भैरव ! । शृणु वेताल ! गुह्यानि देवैरपि सदैव हि ॥ कामाख्या त्रिपुरा चैव तथा कामेश्वरी शिवा । मारदाथ महोत्साहा कामरूपगुणैर्युता” ॥ इति कालिकापुराणे ६१ अध्यायः ॥ * ॥ अस्या मन्त्रं यथा, श्रीभगवानुवाच । “देव्याः कामेश्वरीं मूर्त्तिं शृणु वक्ष्यामि भैरव ! । यस्याश्चिन्तनमात्रेण साधको लमते प्रियान् ॥ तन्त्रं तस्याः प्रथमतस्ततोऽनुध्यानगोचरम् । ततः पूलाकृमं वक्ष्ये क्रमाद्वेतालभैरव ! ॥ प्रजापतिस्ततो वह्निरिन्द्रवीजं ततः परम् ॥ चूडाचन्द्रार्द्धसहितं चतुर्थस्वरसंयुतम् । इदं कामेश्वरीमन्त्रं सर्व्वकामार्थसाधनम्” ॥ * ॥ तस्या ध्यानं यथा, -- “रूपन्तु चिन्तयेद्देव्याः कामेश्वर्य्या मनोहरम् । प्रभिन्नाञ्जनसंकाशां नीलस्निग्धशिरोरुहाम् ॥ षड्वक्त्रां द्वादशभुजां अष्टादशविलोचनाम् । प्रत्येकं षट्सु शीर्षेषु चन्द्रार्द्धकृतशेखराम् ॥ मणिमुक्तादिमाणिक्त्यकृतां मालामुरःस्थले । कण्ठे च बिभ्रतीं नित्यं सर्व्वालङ्कारमण्डिताम् ॥ पुस्तकं सिद्धसूत्रञ्च पञ्चवाणवरं तथा । खड्गं शक्तिञ्च शूलञ्च बिभ्रतीं दक्षिणैः करैः ॥ अक्षमालां महापद्मं कोदण्डञ्चाभयं तथा । चर्म्म पश्चात् पिनाकञ्च बिभ्रतीं वामपाणिभिः ॥ शुक्लं रक्तञ्च पीतञ्च हरितं कृष्णमेव च । विचित्रं क्रमतः शीर्षं ऐशान्यां पूर्ब्बमेव च ॥ दक्षिणं पश्चिमञ्चैव तथैवोत्तरशीर्षकम् । मध्यञ्चेति महाभाग ! क्रमात् शीर्षाणि वर्णतः ॥ शुक्लं माहेश्वरीवक्त्रं कामाख्यारक्तमुच्यते । त्रिपुरापीतसंकाशं सारदाहरितं तथा ॥ कृष्णं कामेश्वरीवक्त्रं चण्डायाश्चित्रमिष्यते । धम्मिल्लसंयतकचं प्रतिशीर्षं प्रकीर्त्तितम् । सिंहोपरिसितप्रेतं तस्मि~ल्लोहितपङ्कजम् । कामेश्वरी स्थिता तत्र ईषत्प्रहसितानना ॥ विचित्रांशुकसंप्रीता व्याघ्रचर्म्माम्बरा तथा । एवं कामेश्वरीं ध्यायेद्धर्म्मकामार्थसिद्धये” ॥ इत्यादि कालिकापुराणे ६३ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कामेश्वरी/ कामे f. N. of a goddess

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--is कामेशी; a nitya देवी. Br. IV. १५-35; १८. 9; २५. ५६; २९. १४५; ३७. ३३; ४४. १४१.

"https://sa.wiktionary.org/w/index.php?title=कामेश्वरी&oldid=495848" इत्यस्माद् प्रतिप्राप्तम्