सामग्री पर जाएँ

काम्पिल्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काम्पिल्यः, पुं, (कम्पिल + जातार्थे ष्यञ् ।) गुण्डा- रोचनीनामसुगन्धिद्रव्यम् । इत्यमरटीकायां भरतः ॥ (कम्पिलाया अदूरे भवः इति सङ्काशादित्वात् ण्यः ।) उत्तरदेशविशेषः । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । १३९ । ६८ । “माकन्दीमथगङ्गायास्तीरे जनपदायुताम् । सोऽध्यवात्सीत् दीनमनाः काम्पिल्यञ्च पुरोत्तमम् । दक्षिणांश्चापि पाञ्चालान् यावच्चर्म्मन्वती नदी” ॥)

"https://sa.wiktionary.org/w/index.php?title=काम्पिल्यः&oldid=126277" इत्यस्माद् प्रतिप्राप्तम्