सामग्री पर जाएँ

काम्यदानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काम्यदानम्, क्ली, (काम्यञ्च तत् दानञ्चेति ।) कमनीयस्य वस्तुनो वरस्त्रीरत्नादिनी दानं कामनया वा दानं । इति भरतः ॥ तत्पर्य्यायः । प्रवारणम् २ । इत्य- मरः । ३ । २ । ३ ॥ (यथा, गरुडपुराणे । “अपत्यविजयैश्वर्य्यस्वर्गार्थं यत्प्रदीयते । दानं तत् काम्यमाख्यातं ऋषिभिर्धर्म्मचिन्तकैः” ॥)

"https://sa.wiktionary.org/w/index.php?title=काम्यदानम्&oldid=126296" इत्यस्माद् प्रतिप्राप्तम्