सामग्री पर जाएँ

कायिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कायिकः, त्रि, (कायेन निष्पादितः निष्पन्नो वा कायेन निर्वृत्त इति वा । काय + ठक् ।) शा- रीरिकः । कायनिष्पन्नः । यथा । “अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिकं त्रिविधं स्मृतम्” ॥ इति तिथ्यादितत्त्वम् ॥ (स्त्री, शरीरसम्बन्धिनी चक्रवृद्धिः । यथा मनुः ८ । १५३ । “चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या” ॥)

"https://sa.wiktionary.org/w/index.php?title=कायिकः&oldid=126308" इत्यस्माद् प्रतिप्राप्तम्