कायिकावृद्धिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कायिकावृद्धिः, स्त्री, (गोबलीवर्द्दादीनां कायपरि- श्रमसाध्या या वृद्धिः ।) गवादिवलीवर्द्दादिकर्म्म- युता वृद्धिः । यथा । “दोह्यवाह्यकर्म्मयुता कायिका समुदाहृता” ॥ इति व्यासः ॥ मूलधनाविरोधिनी प्रत्यब्ददेयपण- तदर्द्धादिरूपा वृद्धिः । यथा । “कायाविरोधिनी शश्वत् पणार्द्धाद्या तु कायिका” । इति नारदः ॥ हलायुधस्तु पणार्द्धाद्या इत्यत्र पणवाह्येति पठित्वा पणस्य मूलधनस्य यावदव- स्थानं तावत् शश्वत् वर्षसहस्रमपि उत्तमर्णेन या वाह्यते प्राप्यते सा कायिकेति व्याख्यातवान् तत्राद्या भोगलाभान्तर्गता अपरा च तद्भिन्ना इति मिश्राः । इति विवादार्णवसेतुः ॥
