सामग्री पर जाएँ

कारकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कारकम्, क्ली, (क्रियाभिरन्वितं इति । भाष्यमते तु करोति क्रियां निर्वर्त्तयतीति । कृ + कर्त्तरि ण्वुल् ।) क्रियानिमित्तं लोकतः सिद्धम् । इति दुर्गसिंहः ॥ फणिभाष्यमते पुं, यथा भवितुः स प्रयोजकः कारकः । तत्तु षड्विधम् । कर्म्म १ यथा रामं नमति । करणम् २ यथा नेत्रैः शिवो दृष्टः । कर्त्ता ३ यथा जनैः शिवो दृष्टः । सम्प्रदानम् ४ यथा हरिः सद्भ्यः सुखं ददातु । अपादानम् ५ यथा विभीषणः पदाद्भ्रष्ठः । अधिकरणम् ६ यथा रेमे शरदि गोविन्दः । इति वोपदेवः ॥ वर्षोप- लोद्भवं जलम् । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=कारकम्&oldid=126314" इत्यस्माद् प्रतिप्राप्तम्