कारणोत्तर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारणोत्तरम्, क्ली, (कारणेन उत्तरम् ।) प्रत्यव- स्कन्दनम् । सत्यत्वेनाङ्गीकृत्य तत्प्रतिकूलरूप- कारणं ब्रूयात् तदा तदुत्तरम् । तत्त्रिविधम् । बलवत् १ तुल्यबलम् २ दुर्ब्बलम् ३ । आद्यं यथा मया त्वत्तः शतं गृहीतमिति सत्यं किन्तु तत् परिशोधितम् । द्वितीयं यथा मदीयेयं भूमिः क्रमागतत्वादिति वाद्युक्ते प्रतिवादिनोऽपि तथो त्तरम् । तृतीयं यथा ममेयं भूमिः क्रमागतत्वात् इति वाद्युक्तेममेयं भूमिः दशवर्षोपभुज्यमानत्वात् इति प्रत्युत्तरम् । इति व्यवहारतत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारणोत्तर¦ न॰ कारणेन उत्तरम्। व्यवहारेषु वाद्युपन्यस्तंवस्तु सत्यत्वेनाङ्गीकृत्य तत्प्रतिकूलतासाधनकारणकथन-रूपे उत्तरभेदे, यथा अयं शतं मे धारयतीत्यभियोगे सत्यंगृहीतं किन्तुं शोधितम्, इयं भूमिर्मदीयानेन भुज्यतेइत्यभियोगे सत्यमेतस्य भूमिः किन्तु दानेन क्रयादिना वाइदानीं ममेत्युत्तरम्। उत्तरशब्दे
१०
९० पृ॰ विवृतिः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारणोत्तर¦ n. (-रं) Special plea, denial of the cause of complaint, admis- sion of the charge generally, but denial of the issue; as to a de- mand of debt, acknowledgement that it was incurred, but assertion that the loan has been repaid, &c. E. कारण the cause, and उत्तर answer.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारणोत्तर/ कारणो n. answer to a charge , denial of the cause (of complaint ; e.g. acknowledgment that a debt was incurred , but assertion that it has been repaid , etc. )