कारण्डवः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारण्डवः, पुं, स्त्री, (ञमन्ताडड इति रमेर्ड । रण्डः । ईषत् रण्डः । “ईषदर्थे” ६ । ७ । १०५ । इति कोः कादेशः । कारण्डं वाति । वा गतौ + “आतोनुपेति” । ३ । २ । ३ । कः । करण्डस्येदं कारण्डं तदाकारं वाति वा ।) हंसविशेषः इत्यमरः । २ । ५ । ३४ ॥ खडहा~स इति भाषा (यथा ऋतुसंहारे । शरद्वर्णणे ८ । “कारण्डवाननविघट्टितवीचिमालाः कादम्बसारसकुलाकुलतीरदेशाः” ॥)
