सामग्री पर जाएँ

कारवेल्लम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कारवेल्लम्, क्ली, (कारं वेल्लति । वेल्ल चलने कर्म्म- ण्यण् । यद्वा कारेण वातगमनेन वेल्लति चलति गच्छति वा वेल्ल चलने अच् ।) कठिल्लकम् । करला इति भाषा । तत्पर्य्यायगुणाः । “कारवेल्लं कठिल्लं स्यात् कारवेल्ली ततो लघुः । कारवेल्लं हिमं भेदि लघु तिक्तमवातलम् ॥ ज्वरपित्तकफास्रध्नं पाण्डुमेहकृमीन् हरेत् । तद्गणा कारवेल्ली स्याद्विशेषाद्दीपनी लघुः” ॥ इति भावप्रकाशः ॥ अमरे पुंलिङ्गोऽयम् ॥

"https://sa.wiktionary.org/w/index.php?title=कारवेल्लम्&oldid=126341" इत्यस्माद् प्रतिप्राप्तम्