कारोत्तर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारोत्तरः, पुं, (कारेण सुरागालनक्रियया उत्तरति । उत् + तॄ + अच् ।) सुराग्रभागः । तत्पर्य्यायः । सुरामण्डः २ । इत्यमरः । २ । १० । ४३ ॥ कूपः । इति हारावली ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारोत्तर पुं।
सुरामण्डः
समानार्थक:कारोत्तर,सुरामण्ड
2।10।42।2।1
सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः। कारोत्तरः सुरामण्ड आपानं पानगोष्ठिका॥
पदार्थ-विभागः : खाद्यम्,पानीयम्
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारोत्तर¦ पु॰ कारेण सुरागालनक्रियया उत्तरति उद् + तॄ-अच्।
१ सुरामण्डे अमरः स्वामी तु कारोत्तम इतिपठित्वा तत्रार्थे इत्याह सुरागालन क्रियायां मण्डस्योत्त-मत्वात्तथात्वम्। कारेण ईषद्गत्या उत्तीर्यतेऽसौ उद् +तॄ--कर्मणि अप्।
२ कूपे हला॰ तद्धेतुत्वात् चालनीरूपेवंशादिजे
३ पात्रभेदे।
“अन्तर उत्तरवेद्या रूपं कारो-त्तरोभिषक्” यजु॰
१९ ,
१६ । कारोत्तरः सुरापावन-चालनी” वेददी॰
“अस्थि मज्जानं मासरैः कारो-त्तरेण” यजु॰
१९ ,
८२ । सुसागालनी चालनीच वंशमयी तया यज्ञियसुरागालनप्रकारः कात्या॰श्रौ॰
१९ ,
२ ,
७ , सू॰ दर्शितोयथा। श्वभ्रं खात्वास्वरमपरेण चर्मावधाय परिस्रुतमासिच्य कारोत्तरमव-दधाति, कारोत्तराद्वा चर्म्मणि मन्त्रलिङ्गात् पूतामा-दत्ते सिञ्चन्ति परिषिञ्चन्तीति”।
“ततो दक्षिण-वेदिस्वरमपरेण बहिर्वेदि श्वभ्रं गर्त्तं खात्वा तत्र गर्त्तेगोचर्म्मावधाय परिस्रुत सुरां चर्म्मणि आसिच्य सुरायाउपरि कारोत्तरं वंशमयं पात्र (करोत्तरश्चालनिका)सुरागालनसर्मथं निदधाति एवं कृते मलस्तले तिष्ठतिगलिता सुरा कारोत्तरस्योपर्य्यायाति एकोऽयं गालनोपायः। अथवा पूर्ब्बं चर्म्मणि कारोत्तरमवधाय तत्र[Page1945-a+ 38] सुरामासिञ्चति तथा च सति कारोत्तरात् चर्म्मणिसुरा पतति” सं॰ व्या॰।
“तस्य लोमान्येव पुष्पाणि,त्वक् तोक्मानि, मांसं लाजा अस्थि कारोत्तरो मज्जामासरं रसः परिस्रुन्नग्रहुर्लोहितं, रेतः पयः, सूत्रंसुरोवध्यम् वल्कसम्” शत॰ ब्रा॰
१२ ,
९ ,
१ ,
२ । एवंकारोत्तरशब्दस्य चालनीपरत्वे स्थिते सुरामण्डस्य तत्-साध्यत्वात् तथात्वं बोध्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारोत्तर¦ m. (-रः)
1. Barm, yeast: see the preceding.
2. A well. E. As before, उत्तर best, instead of उत्तम।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारोत्तर m. id. L.
कारोत्तर m. a well L.
कारोत्तर/ कारो mfn. followed by कारTPra1t.