सामग्री पर जाएँ

कार्त्तवीर्य्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कार्त्तवीर्य्यः पुं, (कृतवीर्य्यस्य अपत्यं अण् ।) चन्द्र- वंशीयकृतवीर्य्यराजपुत्त्रः । तत्पर्य्यायः । हेहयः २ दोःसहस्रभृत् ३ अर्ज्जुनः ४ । (यथा, भागवते ९ । २३ । २४ । “न नूनं कार्त्तवीर्य्यस्य गतिं यास्यन्ति पार्थिवाः । यज्ञदानतपोयोगश्रुतवीर्य्यजयादिमिः” ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कार्त्तवीर्य्य¦ पु॰ कृतवीर्य्यस्यापत्यम् अण्। कृतवीर्य्यनृपापत्येसहस्रवाहौ अर्जुने।
“अर्जुनःकृतवीर्य्यस्य सप्तद्वीपेश्वरोऽभवत्। दत्तात्रे याद्धरेरंशात् प्राप्तयोगमहागुणः। न नूनं कार्त्तवी-र्य्यस्य गतिं यास्यन्ति पार्थिवाः। यज्ञदान तपोयोगैः श्रुत-वीर्य्यजपादिभिः” भाग॰

९ ,

२३ ,

२७ । तत्कथादि अर्जुनशब्दे

३६

६ पृ॰ उक्तप्रायसधिकं भा॰ आनु॰

१५

२ अ॰ उक्तं यथा। [Page1945-b+ 38]
“सहस्रभुजभृत् श्रीमान् कार्त्तवीर्य्योऽभवत् प्रभुः। अस्यलोकस्य सर्व्वस्य माहिष्मत्यां महाबलः। स तु रत्नाकर-वतीं सद्वीपां सागराम्बराम्। शशास पृथिवीं सर्व्वां हैहयःसत्यविक्रमः। स्ववित्तं येन दत्तन्तु दत्तात्रेयाय कारणे। क्षत्त्रधर्म्मं पुरस्कृत्य विनयं श्रुतमेव च। आराधयामासच तं कृतवीर्य्यात्मजो मुनिम्। न्यमन्त्रयत सन्तुष्टो द्विजश्चैनंवरैस्त्रिभिः। स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत्। सह-स्रवाहुर्भूयासं चमूमध्ये गृहेऽन्यथा। मम बाहुसहस्रन्तुपश्यन्तां सैनिका रणे। विक्रमेण महीं कृत्स्नां जयेयं शंसि-तव्रत!। ताञ्च धर्म्मेण सम्प्राप्य पालयेयमतन्द्रितः। चतुर्थंचवरंयाचे त्वामहं द्विजसत्तम! तं ममानुग्रहकृते दातुम-र्हस्यनिन्दित!। अनुशासन्तु मां सन्तो मिथ्योद्वृत्तं त्वदा-श्रयम्। इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम्। एवं समभवंस्तस्य वरास्ते दीप्ततेजसः। ततः स रथमा-स्थाय ज्वलनार्कसमद्युतिम्। अब्रवीद्वीर्य्यसम्मोहात् कोऽन्वस्ति सदृशो मम। धैर्य्येवीर्य्ये यशःशौर्य्ये विक्रमेणौजसाऽपि वा। तद्वाक्यान्तेऽन्तरीक्षे वै वागुवाचाशरौरिणी। न त्वं मूढ! विजानीषे ब्राह्मणं क्षत्रियाद्वरम्। सहितोब्राह्मणेनेह क्षत्रियः शास्ति वै प्रजाः। अर्ज्जुन उवाच। कुर्य्यां भूतानि तुष्टोऽहं क्रुद्धो नाशन्तथा नये। कर्म्मणामनसा वाचा न मत्तोऽस्ति बरो द्विजः। पूर्ब्बो ब्रह्मोत्तरोवादो द्वितीयः क्षत्रियोत्तरः। त्वयोक्तौ हेतुयुक्तौ तौकथं नु ब्राह्मणो वरः। सर्व्वभूतप्रधानांस्तान् भैक्षवृत्तीनहंसदा। आत्मसम्भावितान् विप्रान् स्थापयाम्यात्मनो वशे। कथितं ह्यनया सत्यं गायत्र्या कन्यया दिवि। विजेष्याम्य-बशान् सर्व्वान् ब्राह्मणांश्चर्म्मवाससः। न च मां च्यावयेद्रा-ष्ट्नात्त्रिषु लोकेषु कश्चन। देवो वा मानुषो वापि तस्माज्-ज्येष्ठो द्विजादहम्। अथ ब्रह्नोत्तरं लोकं करिष्ये क्षत्रियो-त्तरम्। न हि मे संयुगे कश्चित्सोढुमुत्सहते बलम्। अर्जुनस्यवचः श्रुत्वा वित्रस्ताऽभून्निशाचरी। अथैनमन्तरिक्षस्थ-स्ततो वायुरभाषत। त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नम-स्कुरु। एतेषां कुर्व्वतः पापं राष्ट्रक्षोभो भविष्यति। अथ वात्वां महीपाल! शमयिष्यन्ति ये द्विजाः। निरसिष्यन्ति तेराष्ट्राद्धतोसाहं महाबलाः। तं राजा कस्त्वमित्याह ततस्तंप्राह मारुतः। वायुर्व्वैदेवदूतोऽस्मि हितं त्वां प्रब्रवी-म्यहम्। अर्ज्जुन उवाच। अहो त्वयाऽद्य विप्रेषुभक्तिरागः प्रदर्शितः। यादृशं पृथिवीभूतं तादृशं ब्रूहि वैद्विजम्। वायोर्व्वा सदृशं किञ्चित् ब्रुहि त्वं ब्राह्मणोत्त-[Page1946-a+ 38] मम्। अपां वै सदृशो वह्निः सूर्य्यस्य नभसोऽपि वा”। ततः पवनार्ज्जुनयोः संवादे बहुकथा तत्र दृश्या।
“भवन्तं कार्त्तवीर्य्योयोहीनसन्धिमचीकरत्” भट्टिः।
“अनन्यसाधारणराजशब्दीबभूव योगी किल कार्त्त-वीर्य्यः” रघुः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कार्त्तवीर्य्य¦ m. (-र्य्यः)
1. The name of a king, also called ARJUNA, killed by PARASURAMA.
2. The name of one of the Jaina chacravartis or emperors of the world. E. कृतवीर्य्य the father of this prince, अण् patronymic aff.

"https://sa.wiktionary.org/w/index.php?title=कार्त्तवीर्य्य&oldid=273109" इत्यस्माद् प्रतिप्राप्तम्